Thursday, November 11, 2010

यच्च अन्यत्त्रिकालातितम् तदप्योंकारम् एव

ओमित्यस्मिन् त्रिमात्रिके निःशब्दाक्षरोऽपि अन्तर्हितोऽस्ति। इमाः श्रुतत्रिमात्राः निःशब्दात् उदेति निःशब्दे अप्येति (अपि + इण्)। अस्य अन्वयोऽस्ति व्याकृतम् (manifested / phenomena) अव्याकृतात् (unmanifested / noumena ) स्फुरति अन्ते अव्याकृतं निर्गच्छतीति। तदनु त्रिकालाः त्रिलोकाः त्रिप्रज्ञधामानि च अव्याकृतात् प्रभवन्ति अव्याकृते एव अपियन्ति। अयम् अव्याकृतो निःशब्दाक्षरोऽपि ओंकार एव इति अनेन श्लोकेन दीप्यते। पूर्णम् अदः पूर्णम् इदं पूर्णात् पूर्णमुदच्यते इत्यनेनापि इदम् एव सत्यं प्रकीर्तितम्। रज्जुः सर्पोऽस्तीति मूढकल्पनाप्रसङ्गे मूढतया सर्पः रज्जोः प्रभवति ज्ञनोदयेन सर्पः रज्जौ अप्येति। तदा सर्पः रज्जुरेव इति अपरोक्षानुभूतिर्भवति। एवमेव लोकः कालः प्रज्ञधामानि च केवलं मूढतया स्फुरितं मनस्पन्दनम् यत् सर्वं ज्ञानोदयेन अव्याकृते अप्येतीति श्लोकेन प्रेरितम्।

अतोहि भिन्नत्वं भ्रान्तिदर्शनम्। विश्वैकता नियतसत्यं।

No comments:

Post a Comment