Friday, October 29, 2010

तस्योपव्याख्यानं भूतंभवत्भविष्यत् इति

पूर्वं ओमित्येतदक्षरम् इदं सर्वम् इत्योक्तम्। इदं सर्वम् इत्यनेन यत् वर्तमानकालात् अस्माकं इन्द्रियगोचरे पतितम् केवलं तत् न निबोधितम्। अपि तु अन्यत्त्रिकाले प्रवृत्तः समग्रलोक एव अभिप्रेतः। केवलं वर्तमानकलस्य अनुभवेन जगतः सम्पूर्णनिजवस्तुत्वं ज्ञातुम् अश्क्यम् ननु। अतः तस्योपव्याख्यानं भूतंभवत्भविष्यत् इति वर्णितम्। पुनश्च ओमिति त्रिमात्रिकस्य तत्पर्यं त्रिलोकं त्रिकालं अपि च त्रिप्रज्ञधाम अस्ति।

त्रयः लोका भूर्भुवस्व इति।
त्रयः काला भूतंभवत्भविष्यत् इति।
त्रीणि प्रज्ञधामानि विश्वस्तैज्सःप्राज्ञश्चेति अस्मिन् उपनिशदि निबोधितम्।

इदं सर्वं ओंकासम् एव

Sunday, October 24, 2010

ओमित्येतदक्षरम् इदं सर्वम्

जगति वर्तमनानां कृत्स्नानां वस्तूनां साक्षात्कारः केवलं मनसि स्फुरति। न तु वास्तवे। अन्येन्द्रियैः गृहितवस्त्वाकारस्य मनसा वर्णिता कल्पना वाङ्मूलतः एव अभिधानं प्राप्नोति। पुनश्च वस्त्वाकारस्य अभिज्ञनमपि वाङ्मूलतः एव साध्यते। अतः वागेव लोकस्य आधारी। ओमित्यस्मिन् अग्राक्षरे सर्वेषाम् अक्षराणां प्रयत्नाधाराः समाहृताः सन्ति। अतः तदक्षरं समग्रवाचः मूलम् इत्युच्यते। इत्थं ओमित्येतदक्षरम् इदं सर्वम् इत्योक्तम्। अतोहि अयं लोकः केवलं मनस्स्पन्दनं इत्यपि सततं स्मरणीयम्।

Saturday, October 23, 2010

पिपीलिकभक्षकस्य तृष्णा

कदाचित् कस्मिंश्चित् घनारण्ये आसीत् एकः बृहान् पीलिकानिलयः। तस्मिन् निलये वसन्त्यः बह्व्यः पिपीलिकाः तथापि सन्तुष्टाः आसन् यद्यपि पार्श्वे विद्यमानः पिपीलिकाभक्षकः (anteater) प्रतिदिनं द्वित्राः पिपीलिकाः भक्षयति। यतः निलयस्य पिपीलिकाराज्ञी प्रतिदिनं त्रिचतुराः पिपीलिकाः जनयन्ती आसीत् पिपीलिकानां सन्तुलिता सङ्ख्या तया अपाल्यत।


कतिपयदिवसापगमे वक्रबुद्धिमतः पिपीलिकाभक्षकस्य मनसि जनयन्त्याः तृष्णायाः करणतः सः आवश्यकददिकाः पिपीलिकाः भक्षयति स्म। दुस्हां अवस्थां निवरणाय राज्ञी पिपीलिकाभक्षकेन मिलित्व तृष्णां जहीहि इति अब्रवीत्। अहङ्कारेन भादितः पिपीलिकाभक्षकः तस्यै असूयन् तां एव अखादयत्। राज्ञ्या विना पिपीलिकानां सङ्ख्या ह्रासता गता। गच्छता कालेन एकापि पिपीलिका न अवशिष्टा। कथं स्वर्थिभिः जनैः परिसरसन्तुलितस्य उत्सादनेन स्वस्य हानिः एव जायते इति अन्नहीनेन म्रियमानेन पिपीलिकभक्षकेन तदा अवगतम्।