Sunday, March 21, 2010

पूर्वजानां पूर्णत्वम् (अनुवर्तनम्)

पूर्वस्मिन् लेखे मनुष्यस्य उत्पादनविशये कञ्चित् लिखितं मया। अस्मिन् लेखे तस्य विशयस्य इतोऽपि कञ्चित् अनुवर्तनं। मनुष्यः कुतः आयातः इति प्रश्णस्य आङ्ग्लवैग्ज्ञानात् सञ्जातस्य वानारात् इत्युत्तरस्य विरुद्धं लिखितं मया। इदं लेखं पठित्वा जनानां मनसि संशयः उत्पद्येत यत् Darwin महोदयस्य मताय प्रमाणाः वास्तवे बहवः सन्ति इति।

वास्तविकप्रमाणाः भवेयुः। मनुष्यस्य उत्पादनविशये प्रस्थावनात् पूर्वं मनुष्यः कः इति विश्लेषणीयः। Darwin महोदयस्य मतस्य अतिसूक्ष्मः आधारः यत् मनुष्यः केवलं इदं शरीरं इति। अतः Darwin महोदयस्य मतस्य सूक्त्तिः यत् मनुष्यस्य वपुः एव वानरात् उत्पद्येत इति। मनुष्यः कः इत्येव अज्ञातः मतः कथं वा मनुष्यस्य विशये किमपि निर्णयितुम् अर्हति। क्व आङ्ग्लवैग्ज्ञानस्य ऊहात्मक प्रलपनं क्व भारतस्य पूर्वजानां पूर्णत्वम्

Friday, March 12, 2010

पूर्वजानां पूर्णत्वम्

आङ्ग्लवैग्न्यानिकचिन्तने आधुनिक मनुष्यः वानरात् उदपद्यत। अद्यत्वे जगति सर्वत्र शालायां शैशवे एव ईदृशचिन्तनं मृधुमनसि नियत्रेण प्रतिष्ठापितं अस्ति। एवं सति आदुनिक वस्तुनः प्राप्तसौलभ्ये निमग्नाः भारतीयाः अपि तेषां पूर्वजाः आदिवासिनः इति मन्यन्ते।

येषां गोत्रेण उत नाम्ना महर्षीनां आदरः कृतः तेभ्यः प्रवृत्तं इदं चिन्तनं विशेषतः विलपनीयः विशयः। कस्मिंश्चित् अपि पुरातनभरतीयशास्त्रे अस्य आङ्ग्लवैग्न्यानिकचिन्तस्य विरुद्धं अपर्याप्तः प्रमाणः अस्ति। संस्कृतभाषायाः उच्चारणविशये एव सन्दिग्धं विना कियन्ति सुन्दराणि सूत्राणि रचितानि सन्ति। यद्यपि आदुनिक भाषानां उच्चारणप्रकर्णे इदं अनुत्तमं तथापि अस्माकं पुरातन शास्त्रसागरे अयं विशयः केवलं वेदानां अङ्गस्य अत्यल्पबागः अस्ति।

अस्मिन् विशये आदुनिकभारतीयानां परिस्थितिः मद्यपीतचातकस्य तुल्यात्मिका अस्ति। इदं असत्यं आङ्ग्लवैग्न्यानिकचिन्तनं त्यक्तवा चातकस्य स्वभावानुसरणेन केवलं पूतात्मकवृष्टिजलं इव पूर्वजानां ज्ञानं स्वीकरणीयम्। अनेन पथा भरतदेशस्य यषः पुनःप्रतिष्ठाप्येत न तु आङ्ग्लचिन्तनस्य अन्दानुसरेण।