Friday, March 12, 2010

पूर्वजानां पूर्णत्वम्

आङ्ग्लवैग्न्यानिकचिन्तने आधुनिक मनुष्यः वानरात् उदपद्यत। अद्यत्वे जगति सर्वत्र शालायां शैशवे एव ईदृशचिन्तनं मृधुमनसि नियत्रेण प्रतिष्ठापितं अस्ति। एवं सति आदुनिक वस्तुनः प्राप्तसौलभ्ये निमग्नाः भारतीयाः अपि तेषां पूर्वजाः आदिवासिनः इति मन्यन्ते।

येषां गोत्रेण उत नाम्ना महर्षीनां आदरः कृतः तेभ्यः प्रवृत्तं इदं चिन्तनं विशेषतः विलपनीयः विशयः। कस्मिंश्चित् अपि पुरातनभरतीयशास्त्रे अस्य आङ्ग्लवैग्न्यानिकचिन्तस्य विरुद्धं अपर्याप्तः प्रमाणः अस्ति। संस्कृतभाषायाः उच्चारणविशये एव सन्दिग्धं विना कियन्ति सुन्दराणि सूत्राणि रचितानि सन्ति। यद्यपि आदुनिक भाषानां उच्चारणप्रकर्णे इदं अनुत्तमं तथापि अस्माकं पुरातन शास्त्रसागरे अयं विशयः केवलं वेदानां अङ्गस्य अत्यल्पबागः अस्ति।

अस्मिन् विशये आदुनिकभारतीयानां परिस्थितिः मद्यपीतचातकस्य तुल्यात्मिका अस्ति। इदं असत्यं आङ्ग्लवैग्न्यानिकचिन्तनं त्यक्तवा चातकस्य स्वभावानुसरणेन केवलं पूतात्मकवृष्टिजलं इव पूर्वजानां ज्ञानं स्वीकरणीयम्। अनेन पथा भरतदेशस्य यषः पुनःप्रतिष्ठाप्येत न तु आङ्ग्लचिन्तनस्य अन्दानुसरेण।

No comments:

Post a Comment