Wednesday, April 21, 2010

निजार्थोदयसोपाने प्रथमपादम्

अस्माकं पुरातनशास्त्राणि तैः व्यक्तरूपैः लौकिकजीवनाधारं दैनन्दिकाचरणबोधनं देवासुरकथनं वा कल्पयति। एषां शास्त्राणां गुप्तार्थः अस्तीति बहवः जनाः ऊहेरन्। आसां गुप्तविद्यायाः प्राप्तिः अद्यत्वे अत्यावश्यकी। यतः केवलव्यक्तार्थस्य अन्धश्रद्धया एव आधुनिकभरतस्य अधोगतिः प्राप्ता।

शास्त्राणां निजतात्पर्यं कथं प्रचोदनीयम्?

संस्कृतज्ञानं हि पुरातनशास्त्राणां निजार्थोदयसोपाने प्रथमपादम्। यतः शास्त्राणाम् अनुवादनेषु प्रायः सर्वाणि अनुवादनानि केवलव्यक्तार्थस्य प्रकटनं कुर्वन्ति। ततः परं केषाञ्चित् अनुवादनेषु अनुवादकस्य मतस्य वासनां दृश्यते। शास्त्राणां गुप्तार्थं प्रचोदयितुं आवश्यकासु कुञ्चिकासु अन्यतमा कुञ्चिका निश्चयेन संस्कृतज्ञानं अस्ति।

परन्तु शास्त्राणाम् निजतात्पर्यं केवलसंस्कृतज्ञानेन नैव उदेति। उदारणाय, विख्यातं गायत्रीमन्त्रं पष्यामः।

तत् (२.वि, १.वचन, नपुंसक) सवितुः (सवितृ, ६.वि, १.ववन, पुम्)
वरेण्यम् (२.वि, १. चव, नपुंसक)।

भर्गो (भर्गस्, २.वि, १.वच, नपुंसक) देवस्य (६.वि, १.वच, पुम्)
धीमहि (धा, उ.पु, ३.वच, वि.लिङ्)।

धियो (धी, २.वि, ३.वच , स्त्री) यो (१.वि, १.वचन, पुं) नः (६.वि, ३.वच)
प्रचोदयात् (चुद्, प्र.पु, १.वच, वि.लिङ्)॥


"सवितृ" इत्यस्य व्यक्तार्थः सूर्यः अस्ति। "यः" इति पदं प्रायः "सवितरं" सूचयति। व्यक्तार्थानुसरणेन यदि साक्षात् सूर्यः धीयते तर्हि सः धीयं प्रचोदयति वा। सवितृ इत्यस्य गुप्तार्थः कः इति प्रथमतया विश्लेषनीयः। अस्मिन् लेखे श्रीमान् William Q. Judge महोदयः अस्य श्लोकस्य सारं दीपयति।