Saturday, October 23, 2010

पिपीलिकभक्षकस्य तृष्णा

कदाचित् कस्मिंश्चित् घनारण्ये आसीत् एकः बृहान् पीलिकानिलयः। तस्मिन् निलये वसन्त्यः बह्व्यः पिपीलिकाः तथापि सन्तुष्टाः आसन् यद्यपि पार्श्वे विद्यमानः पिपीलिकाभक्षकः (anteater) प्रतिदिनं द्वित्राः पिपीलिकाः भक्षयति। यतः निलयस्य पिपीलिकाराज्ञी प्रतिदिनं त्रिचतुराः पिपीलिकाः जनयन्ती आसीत् पिपीलिकानां सन्तुलिता सङ्ख्या तया अपाल्यत।


कतिपयदिवसापगमे वक्रबुद्धिमतः पिपीलिकाभक्षकस्य मनसि जनयन्त्याः तृष्णायाः करणतः सः आवश्यकददिकाः पिपीलिकाः भक्षयति स्म। दुस्हां अवस्थां निवरणाय राज्ञी पिपीलिकाभक्षकेन मिलित्व तृष्णां जहीहि इति अब्रवीत्। अहङ्कारेन भादितः पिपीलिकाभक्षकः तस्यै असूयन् तां एव अखादयत्। राज्ञ्या विना पिपीलिकानां सङ्ख्या ह्रासता गता। गच्छता कालेन एकापि पिपीलिका न अवशिष्टा। कथं स्वर्थिभिः जनैः परिसरसन्तुलितस्य उत्सादनेन स्वस्य हानिः एव जायते इति अन्नहीनेन म्रियमानेन पिपीलिकभक्षकेन तदा अवगतम्।

Wednesday, April 21, 2010

निजार्थोदयसोपाने प्रथमपादम्

अस्माकं पुरातनशास्त्राणि तैः व्यक्तरूपैः लौकिकजीवनाधारं दैनन्दिकाचरणबोधनं देवासुरकथनं वा कल्पयति। एषां शास्त्राणां गुप्तार्थः अस्तीति बहवः जनाः ऊहेरन्। आसां गुप्तविद्यायाः प्राप्तिः अद्यत्वे अत्यावश्यकी। यतः केवलव्यक्तार्थस्य अन्धश्रद्धया एव आधुनिकभरतस्य अधोगतिः प्राप्ता।

शास्त्राणां निजतात्पर्यं कथं प्रचोदनीयम्?

संस्कृतज्ञानं हि पुरातनशास्त्राणां निजार्थोदयसोपाने प्रथमपादम्। यतः शास्त्राणाम् अनुवादनेषु प्रायः सर्वाणि अनुवादनानि केवलव्यक्तार्थस्य प्रकटनं कुर्वन्ति। ततः परं केषाञ्चित् अनुवादनेषु अनुवादकस्य मतस्य वासनां दृश्यते। शास्त्राणां गुप्तार्थं प्रचोदयितुं आवश्यकासु कुञ्चिकासु अन्यतमा कुञ्चिका निश्चयेन संस्कृतज्ञानं अस्ति।

परन्तु शास्त्राणाम् निजतात्पर्यं केवलसंस्कृतज्ञानेन नैव उदेति। उदारणाय, विख्यातं गायत्रीमन्त्रं पष्यामः।

तत् (२.वि, १.वचन, नपुंसक) सवितुः (सवितृ, ६.वि, १.ववन, पुम्)
वरेण्यम् (२.वि, १. चव, नपुंसक)।

भर्गो (भर्गस्, २.वि, १.वच, नपुंसक) देवस्य (६.वि, १.वच, पुम्)
धीमहि (धा, उ.पु, ३.वच, वि.लिङ्)।

धियो (धी, २.वि, ३.वच , स्त्री) यो (१.वि, १.वचन, पुं) नः (६.वि, ३.वच)
प्रचोदयात् (चुद्, प्र.पु, १.वच, वि.लिङ्)॥


"सवितृ" इत्यस्य व्यक्तार्थः सूर्यः अस्ति। "यः" इति पदं प्रायः "सवितरं" सूचयति। व्यक्तार्थानुसरणेन यदि साक्षात् सूर्यः धीयते तर्हि सः धीयं प्रचोदयति वा। सवितृ इत्यस्य गुप्तार्थः कः इति प्रथमतया विश्लेषनीयः। अस्मिन् लेखे श्रीमान् William Q. Judge महोदयः अस्य श्लोकस्य सारं दीपयति।

Sunday, March 21, 2010

पूर्वजानां पूर्णत्वम् (अनुवर्तनम्)

पूर्वस्मिन् लेखे मनुष्यस्य उत्पादनविशये कञ्चित् लिखितं मया। अस्मिन् लेखे तस्य विशयस्य इतोऽपि कञ्चित् अनुवर्तनं। मनुष्यः कुतः आयातः इति प्रश्णस्य आङ्ग्लवैग्ज्ञानात् सञ्जातस्य वानारात् इत्युत्तरस्य विरुद्धं लिखितं मया। इदं लेखं पठित्वा जनानां मनसि संशयः उत्पद्येत यत् Darwin महोदयस्य मताय प्रमाणाः वास्तवे बहवः सन्ति इति।

वास्तविकप्रमाणाः भवेयुः। मनुष्यस्य उत्पादनविशये प्रस्थावनात् पूर्वं मनुष्यः कः इति विश्लेषणीयः। Darwin महोदयस्य मतस्य अतिसूक्ष्मः आधारः यत् मनुष्यः केवलं इदं शरीरं इति। अतः Darwin महोदयस्य मतस्य सूक्त्तिः यत् मनुष्यस्य वपुः एव वानरात् उत्पद्येत इति। मनुष्यः कः इत्येव अज्ञातः मतः कथं वा मनुष्यस्य विशये किमपि निर्णयितुम् अर्हति। क्व आङ्ग्लवैग्ज्ञानस्य ऊहात्मक प्रलपनं क्व भारतस्य पूर्वजानां पूर्णत्वम्

Friday, March 12, 2010

पूर्वजानां पूर्णत्वम्

आङ्ग्लवैग्न्यानिकचिन्तने आधुनिक मनुष्यः वानरात् उदपद्यत। अद्यत्वे जगति सर्वत्र शालायां शैशवे एव ईदृशचिन्तनं मृधुमनसि नियत्रेण प्रतिष्ठापितं अस्ति। एवं सति आदुनिक वस्तुनः प्राप्तसौलभ्ये निमग्नाः भारतीयाः अपि तेषां पूर्वजाः आदिवासिनः इति मन्यन्ते।

येषां गोत्रेण उत नाम्ना महर्षीनां आदरः कृतः तेभ्यः प्रवृत्तं इदं चिन्तनं विशेषतः विलपनीयः विशयः। कस्मिंश्चित् अपि पुरातनभरतीयशास्त्रे अस्य आङ्ग्लवैग्न्यानिकचिन्तस्य विरुद्धं अपर्याप्तः प्रमाणः अस्ति। संस्कृतभाषायाः उच्चारणविशये एव सन्दिग्धं विना कियन्ति सुन्दराणि सूत्राणि रचितानि सन्ति। यद्यपि आदुनिक भाषानां उच्चारणप्रकर्णे इदं अनुत्तमं तथापि अस्माकं पुरातन शास्त्रसागरे अयं विशयः केवलं वेदानां अङ्गस्य अत्यल्पबागः अस्ति।

अस्मिन् विशये आदुनिकभारतीयानां परिस्थितिः मद्यपीतचातकस्य तुल्यात्मिका अस्ति। इदं असत्यं आङ्ग्लवैग्न्यानिकचिन्तनं त्यक्तवा चातकस्य स्वभावानुसरणेन केवलं पूतात्मकवृष्टिजलं इव पूर्वजानां ज्ञानं स्वीकरणीयम्। अनेन पथा भरतदेशस्य यषः पुनःप्रतिष्ठाप्येत न तु आङ्ग्लचिन्तनस्य अन्दानुसरेण।