Language brings reality to life. Moreover, reality is born through the language of the mind (viz. thought). Therefore, the nonduality of the two is clear. In Samskritam words are associated both with objective reality and subjective relaity which is also upheald by Upanishadic statements. In Samskritam, five classes of meanings are made known, viz. dravya, guNa, jaati, kriyaa and sattaa. Dravya is that which is known by the five senses and is indicated by words like horse. GuNa is an abstract concept without physical reality that is indicated by concepts such as color. Jaati is the collective-principle-guNas of the same kind of dravya which is indicated by words like horseness. Active or passive kriyaa is inseparably associated with a dravya and indicates dynamism. Sattaa is the essense of all, when in a static condition is guNa-laiden dravya and in a dynamic state is the essense of kriyaa. This satta is the mother of the universe, self-sustaining, reason behind the great delusion and the untimate meaning of all words.
Sunday, August 28, 2011
संस्कृतपदानां पञ्चार्थवर्गाः
Language brings reality to life. Moreover, reality is born through the language of the mind (viz. thought). Therefore, the nonduality of the two is clear. In Samskritam words are associated both with objective reality and subjective relaity which is also upheald by Upanishadic statements. In Samskritam, five classes of meanings are made known, viz. dravya, guNa, jaati, kriyaa and sattaa. Dravya is that which is known by the five senses and is indicated by words like horse. GuNa is an abstract concept without physical reality that is indicated by concepts such as color. Jaati is the collective-principle-guNas of the same kind of dravya which is indicated by words like horseness. Active or passive kriyaa is inseparably associated with a dravya and indicates dynamism. Sattaa is the essense of all, when in a static condition is guNa-laiden dravya and in a dynamic state is the essense of kriyaa. This satta is the mother of the universe, self-sustaining, reason behind the great delusion and the untimate meaning of all words.
Sunday, December 12, 2010
अर्जुनस्य दिव्यचक्षुषी
Monday, December 6, 2010
दैवानुग्रहहेतुकम्
अस्मिन् लोके वर्तमानेषु जन्तुषु मनुष्य एव प्रसङ्गेनानन्वितप्रतिक्रियां प्रकटितुं समर्थोऽस्ति। मनुष्यादृते जन्तुमत्यां प्रवृत्तास्समग्रभुताः प्रोत्साहवशादेव कर्मादत्ता भवन्ति। स्वस्य स्वातन्त्रक्रियाशक्तेः कारणात् मनुष्यस्तृष्णानुसरेण मृगवद् उत श्रद्धानुसरेण देवोऽपि भवितुमर्हति। अस्मिन् विकल्पे श्रद्धानुसरे प्रतिपदितुं सत्सङ्ग एव प्रेरकः। पुनश्च लौकिकाकर्षणान्यतीत्य त्यागबुद्धिप्रप्तिस्तु मनुष्यस्य सर्वोच्छगतिः। अतोऽहि विवेकचूडामण्यां प्रकीर्तितं यत् -
दुर्लभं त्रयमेवैतद्दैवानुग्रहहेतुकं ।
मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः ॥
Sunday, November 28, 2010
योगः
योगश्चित्तवृत्तिनिरोधः इति पतञ्जलिना उक्तम्। अत्रान्तरे इदं सर्वं केवलं मनस्पन्दनं यत् सर्वं अव्याकृतेः स्फुरितम् इत्यपि माण्डुक्योपनिषदा ज्ञानम्। अतः एकाग्रतायाः व्याकृतिः अव्याकृतिना युनक्ति। यथा सर्पः रज्जौ अप्येति। तदनु चित्तवृत्तिनिरोदेन भिन्नत्वे अनुरागितं मिथ्यास्वरूपं अस्माकं परमात्मना युङ्क्ते। इदं योजनं योगः वास्तवे मोक्षार्थम् न तु आधुनिकवपुर्व्यायामः स्वास्थ्यार्थम्। अतोहि निवृत्तेन्द्रियः निजयोगं करोति न तु निगृहितकायः।
Thursday, November 11, 2010
यच्च अन्यत्त्रिकालातितम् तदप्योंकारम् एव
ओमित्यस्मिन् त्रिमात्रिके निःशब्दाक्षरोऽपि अन्तर्हितोऽस्ति। इमाः श्रुतत्रिमात्राः निःशब्दात् उदेति निःशब्दे अप्येति (अपि + इण्)। अस्य अन्वयोऽस्ति व्याकृतम् (manifested / phenomena) अव्याकृतात् (unmanifested / noumena ) स्फुरति अन्ते अव्याकृतं निर्गच्छतीति। तदनु त्रिकालाः त्रिलोकाः त्रिप्रज्ञधामानि च अव्याकृतात् प्रभवन्ति अव्याकृते एव अपियन्ति। अयम् अव्याकृतो निःशब्दाक्षरोऽपि ओंकार एव इति अनेन श्लोकेन दीप्यते। पूर्णम् अदः पूर्णम् इदं पूर्णात् पूर्णमुदच्यते इत्यनेनापि इदम् एव सत्यं प्रकीर्तितम्। रज्जुः सर्पोऽस्तीति मूढकल्पनाप्रसङ्गे मूढतया सर्पः रज्जोः प्रभवति ज्ञनोदयेन सर्पः रज्जौ अप्येति। तदा सर्पः रज्जुरेव इति अपरोक्षानुभूतिर्भवति। एवमेव लोकः कालः प्रज्ञधामानि च केवलं मूढतया स्फुरितं मनस्पन्दनम् यत् सर्वं ज्ञानोदयेन अव्याकृते अप्येतीति श्लोकेन प्रेरितम्।
अतोहि भिन्नत्वं भ्रान्तिदर्शनम्। विश्वैकता नियतसत्यं।
Friday, October 29, 2010
तस्योपव्याख्यानं भूतंभवत्भविष्यत् इति
पूर्वं ओमित्येतदक्षरम् इदं सर्वम् इत्योक्तम्। इदं सर्वम् इत्यनेन यत् वर्तमानकालात् अस्माकं इन्द्रियगोचरे पतितम् केवलं तत् न निबोधितम्। अपि तु अन्यत्त्रिकाले प्रवृत्तः समग्रलोक एव अभिप्रेतः। केवलं वर्तमानकलस्य अनुभवेन जगतः सम्पूर्णनिजवस्तुत्वं ज्ञातुम् अश्क्यम् ननु। अतः तस्योपव्याख्यानं भूतंभवत्भविष्यत् इति वर्णितम्। पुनश्च ओमिति त्रिमात्रिकस्य तत्पर्यं त्रिलोकं त्रिकालं अपि च त्रिप्रज्ञधाम अस्ति।
त्रयः लोका भूर्भुवस्व इति।
त्रयः काला भूतंभवत्भविष्यत् इति।
त्रीणि प्रज्ञधामानि विश्वस्तैज्सःप्राज्ञश्चेति अस्मिन् उपनिशदि निबोधितम्।
इदं सर्वं ओंकासम् एव।
Sunday, October 24, 2010
ओमित्येतदक्षरम् इदं सर्वम्
जगति वर्तमनानां कृत्स्नानां वस्तूनां साक्षात्कारः केवलं मनसि स्फुरति। न तु वास्तवे। अन्येन्द्रियैः गृहितवस्त्वाकारस्य मनसा वर्णिता कल्पना वाङ्मूलतः एव अभिधानं प्राप्नोति। पुनश्च वस्त्वाकारस्य अभिज्ञनमपि वाङ्मूलतः एव साध्यते। अतः वागेव लोकस्य आधारी। ओमित्यस्मिन् अग्राक्षरे सर्वेषाम् अक्षराणां प्रयत्नाधाराः समाहृताः सन्ति। अतः तदक्षरं समग्रवाचः मूलम् इत्युच्यते। इत्थं ओमित्येतदक्षरम् इदं सर्वम् इत्योक्तम्। अतोहि अयं लोकः केवलं मनस्स्पन्दनं इत्यपि सततं स्मरणीयम्।
Saturday, October 23, 2010
पिपीलिकभक्षकस्य तृष्णा
कदाचित् कस्मिंश्चित् घनारण्ये आसीत् एकः बृहान् पीलिकानिलयः। तस्मिन् निलये वसन्त्यः बह्व्यः पिपीलिकाः तथापि सन्तुष्टाः आसन् यद्यपि पार्श्वे विद्यमानः पिपीलिकाभक्षकः (anteater) प्रतिदिनं द्वित्राः पिपीलिकाः भक्षयति। यतः निलयस्य पिपीलिकाराज्ञी प्रतिदिनं त्रिचतुराः पिपीलिकाः जनयन्ती आसीत् पिपीलिकानां सन्तुलिता सङ्ख्या तया अपाल्यत।
कतिपयदिवसापगमे वक्रबुद्धिमतः पिपीलिकाभक्षकस्य मनसि जनयन्त्याः तृष्णायाः करणतः सः आवश्यकददिकाः पिपीलिकाः भक्षयति स्म। दुस्हां अवस्थां निवरणाय राज्ञी पिपीलिकाभक्षकेन मिलित्व तृष्णां जहीहि इति अब्रवीत्। अहङ्कारेन भादितः पिपीलिकाभक्षकः तस्यै असूयन् तां एव अखादयत्। राज्ञ्या विना पिपीलिकानां सङ्ख्या ह्रासता गता। गच्छता कालेन एकापि पिपीलिका न अवशिष्टा। कथं स्वर्थिभिः जनैः परिसरसन्तुलितस्य उत्सादनेन स्वस्य हानिः एव जायते इति अन्नहीनेन म्रियमानेन पिपीलिकभक्षकेन तदा अवगतम्।
Wednesday, April 21, 2010
निजार्थोदयसोपाने प्रथमपादम्
शास्त्राणां निजतात्पर्यं कथं प्रचोदनीयम्?
संस्कृतज्ञानं हि पुरातनशास्त्राणां निजार्थोदयसोपाने प्रथमपादम्। यतः शास्त्राणाम् अनुवादनेषु प्रायः सर्वाणि अनुवादनानि केवलव्यक्तार्थस्य प्रकटनं कुर्वन्ति। ततः परं केषाञ्चित् अनुवादनेषु अनुवादकस्य मतस्य वासनां दृश्यते। शास्त्राणां गुप्तार्थं प्रचोदयितुं आवश्यकासु कुञ्चिकासु अन्यतमा कुञ्चिका निश्चयेन संस्कृतज्ञानं अस्ति।
परन्तु शास्त्राणाम् निजतात्पर्यं केवलसंस्कृतज्ञानेन नैव उदेति। उदारणाय, विख्यातं गायत्रीमन्त्रं पष्यामः।
तत् (२.वि, १.वचन, नपुंसक) सवितुः (सवितृ, ६.वि, १.ववन, पुम्)
वरेण्यम् (२.वि, १. चव, नपुंसक)।
भर्गो (भर्गस्, २.वि, १.वच, नपुंसक) देवस्य (६.वि, १.वच, पुम्)
धीमहि (धा, उ.पु, ३.वच, वि.लिङ्)।
धियो (धी, २.वि, ३.वच , स्त्री) यो (१.वि, १.वचन, पुं) नः (६.वि, ३.वच)
प्रचोदयात् (चुद्, प्र.पु, १.वच, वि.लिङ्)॥
"सवितृ" इत्यस्य व्यक्तार्थः सूर्यः अस्ति। "यः" इति पदं प्रायः "सवितरं" सूचयति। व्यक्तार्थानुसरणेन यदि साक्षात् सूर्यः धीयते तर्हि सः धीयं प्रचोदयति वा। सवितृ इत्यस्य गुप्तार्थः कः इति प्रथमतया विश्लेषनीयः। अस्मिन् लेखे श्रीमान् William Q. Judge महोदयः अस्य श्लोकस्य सारं दीपयति।
Sunday, March 21, 2010
पूर्वजानां पूर्णत्वम् (अनुवर्तनम्)
वास्तविकप्रमाणाः भवेयुः। मनुष्यस्य उत्पादनविशये प्रस्थावनात् पूर्वं मनुष्यः कः इति विश्लेषणीयः। Darwin महोदयस्य मतस्य अतिसूक्ष्मः आधारः यत् मनुष्यः केवलं इदं शरीरं इति। अतः Darwin महोदयस्य मतस्य सूक्त्तिः यत् मनुष्यस्य वपुः एव वानरात् उत्पद्येत इति। मनुष्यः कः इत्येव अज्ञातः मतः कथं वा मनुष्यस्य विशये किमपि निर्णयितुम् अर्हति। क्व आङ्ग्लवैग्ज्ञानस्य ऊहात्मक प्रलपनं क्व भारतस्य पूर्वजानां पूर्णत्वम्।
Friday, March 12, 2010
पूर्वजानां पूर्णत्वम्
येषां गोत्रेण उत नाम्ना महर्षीनां आदरः कृतः तेभ्यः प्रवृत्तं इदं चिन्तनं विशेषतः विलपनीयः विशयः। कस्मिंश्चित् अपि पुरातनभरतीयशास्त्रे अस्य आङ्ग्लवैग्न्यानिकचिन्तस्य विरुद्धं अपर्याप्तः प्रमाणः अस्ति। संस्कृतभाषायाः उच्चारणविशये एव सन्दिग्धं विना कियन्ति सुन्दराणि सूत्राणि रचितानि सन्ति। यद्यपि आदुनिक भाषानां उच्चारणप्रकर्णे इदं अनुत्तमं तथापि अस्माकं पुरातन शास्त्रसागरे अयं विशयः केवलं वेदानां अङ्गस्य अत्यल्पबागः अस्ति।
अस्मिन् विशये आदुनिकभारतीयानां परिस्थितिः मद्यपीतचातकस्य तुल्यात्मिका अस्ति। इदं असत्यं आङ्ग्लवैग्न्यानिकचिन्तनं त्यक्तवा चातकस्य स्वभावानुसरणेन केवलं पूतात्मकवृष्टिजलं इव पूर्वजानां ज्ञानं स्वीकरणीयम्। अनेन पथा भरतदेशस्य यषः पुनःप्रतिष्ठाप्येत न तु आङ्ग्लचिन्तनस्य अन्दानुसरेण।



