Sunday, August 28, 2011

संस्कृतपदानां पञ्चार्थवर्गाः

भाषास्तित्वदीपिका । परम् अस्तित्वस्य तु मानसिकवाण्या संभवः । अतस्तयोरभिन्नत्वं स्पष्टम् । अथ संस्कृतपदानामर्था वास्तविकानुगुणाः पारमार्थिकोपेताश्च यत ईशावास्यादेरपि । संस्कृतवाण्यां पञ्चार्थवर्गाः प्रकीर्तिता यद् द्रव्यं गुणो जातिः क्रिया सत्ता च । द्रव्यं पञ्चेन्द्रियज्ञेयम् अश्वादिपदेन सूच्यम् । गुणो वास्तविकाभावो मानसिककल्पना च वर्णादिपदेन उपदिश्यते । जातिस्तुल्यद्रव्यानां प्रामुख्यगुणसमूहोऽश्वत्वादिपदेन निर्दिश्यते । कर्तरि कर्मणि वा क्रिया सततं द्रव्येन युक्ता जङ्गमस्थितिर्निवेदिता । सत्ता सर्वेषां सत्वं स्थावरस्थितौ गुणवद् द्रव्यम् जङ्गमस्थितौ क्रियास्वरूपिणी । इयं लोकजननी स्वभावती महामायाहेतुरेव सर्वपदानाम् अत्यन्तार्थतत्वम् ।


Language brings reality to life. Moreover, reality is born through the language of the mind (viz. thought). Therefore, the nonduality of the two is clear. In Samskritam words are associated both with objective reality and subjective relaity which is also upheald by Upanishadic statements. In Samskritam, five classes of meanings are made known, viz. dravya, guNa, jaati, kriyaa and sattaa. Dravya is that which is known by the five senses and is indicated by words like horse. GuNa is an abstract concept without physical reality that is indicated by concepts such as color. Jaati is the collective-principle-guNas of the same kind of dravya which is indicated by words like horseness. Active or passive kriyaa is inseparably associated with a dravya and indicates dynamism. Sattaa is the essense of all, when in a static condition is guNa-laiden dravya and in a dynamic state is the essense of kriyaa. This satta is the mother of the universe, self-sustaining, reason behind the great delusion and the untimate meaning of all words.

Sunday, December 12, 2010

अर्जुनस्य दिव्यचक्षुषी

भगवद्गीतायां प्रथमोध्याये अर्जुनः विशादेऽपि तस्य दिव्यचक्षुषुर्भ्यां कलियुगसारांशं सुसाधुरूपेण अस्फोटयत्। अस्मिन् काले न कोऽपि एकवर्णस्य धर्मे पारङ्गतोऽस्ति। यतः सामाजिकप्रशंसा तु केवलं सर्ववर्णधर्माणाम् ईशदादत्ताय एव निश्चितास्ति। नित्यव्यायामेन दृढकायः। धूर्तव्यवहारेण अर्जितधनः। मिथ्याशौर्येण वनिताकर्षकः। तत्सर्वं वहनपि कृताध्ययनः यः सामाजीयनेत्रे सः एव सर्वोपेतशिखामणिः। कन्यादानय सर्वोचितमहापुरुषः। ततः परं मनुष्यस्य वर्णः केवलं तस्य जात्यनुगुणं निर्णेता समाज एव वर्णसङ्करकारका अभवन्। अधुना समाजस्य ईदृशसहजभ्रष्टकल्पना वर्णसङ्करेण विना न साध्यते एव ननु।

Monday, December 6, 2010

दैवानुग्रहहेतुकम्

अस्मिन् लोके वर्तमानेषु जन्तुषु मनुष्य एव प्रसङ्गेनानन्वितप्रतिक्रियां प्रकटितुं समर्थोऽस्ति। मनुष्यादृते जन्तुमत्यां प्रवृत्तास्समग्रभुताः प्रोत्साहवशादेव कर्मादत्ता भवन्ति। स्वस्य स्वातन्त्रक्रियाशक्तेः कारणात् मनुष्यस्तृष्णानुसरेण मृगवद् उत श्रद्धानुसरेण देवोऽपि भवितुमर्हति। अस्मिन् विकल्पे श्रद्धानुसरे प्रतिपदितुं सत्सङ्ग एव प्रेरकः। पुनश्च लौकिकाकर्षणान्यतीत्य त्यागबुद्धिप्रप्तिस्तु मनुष्यस्य सर्वोच्छगतिः। अतोऽहि विवेकचूडामण्यां प्रकीर्तितं यत् -

दुर्लभं त्रयमेवैतद्दैवानुग्रहहेतुकं ।
मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः ॥

Sunday, November 28, 2010

योगः

योगश्चित्तवृत्तिनिरोधः इति पतञ्जलिना उक्तम्। अत्रान्तरे इदं सर्वं केवलं मनस्पन्दनं यत् सर्वं अव्याकृतेः स्फुरितम् इत्यपि माण्डुक्योपनिषदा ज्ञानम्। अतः एकाग्रतायाः व्याकृतिः अव्याकृतिना युनक्ति। यथा सर्पः रज्जौ अप्येति। तदनु चित्तवृत्तिनिरोदेन भिन्नत्वे अनुरागितं मिथ्यास्वरूपं अस्माकं परमात्मना युङ्क्ते। इदं योजनं योगः वास्तवे मोक्षार्थम् न तु आधुनिकवपुर्व्यायामः स्वास्थ्यार्थम्। अतोहि निवृत्तेन्द्रियः निजयोगं करोति न तु निगृहितकायः।

Thursday, November 11, 2010

यच्च अन्यत्त्रिकालातितम् तदप्योंकारम् एव

ओमित्यस्मिन् त्रिमात्रिके निःशब्दाक्षरोऽपि अन्तर्हितोऽस्ति। इमाः श्रुतत्रिमात्राः निःशब्दात् उदेति निःशब्दे अप्येति (अपि + इण्)। अस्य अन्वयोऽस्ति व्याकृतम् (manifested / phenomena) अव्याकृतात् (unmanifested / noumena ) स्फुरति अन्ते अव्याकृतं निर्गच्छतीति। तदनु त्रिकालाः त्रिलोकाः त्रिप्रज्ञधामानि च अव्याकृतात् प्रभवन्ति अव्याकृते एव अपियन्ति। अयम् अव्याकृतो निःशब्दाक्षरोऽपि ओंकार एव इति अनेन श्लोकेन दीप्यते। पूर्णम् अदः पूर्णम् इदं पूर्णात् पूर्णमुदच्यते इत्यनेनापि इदम् एव सत्यं प्रकीर्तितम्। रज्जुः सर्पोऽस्तीति मूढकल्पनाप्रसङ्गे मूढतया सर्पः रज्जोः प्रभवति ज्ञनोदयेन सर्पः रज्जौ अप्येति। तदा सर्पः रज्जुरेव इति अपरोक्षानुभूतिर्भवति। एवमेव लोकः कालः प्रज्ञधामानि च केवलं मूढतया स्फुरितं मनस्पन्दनम् यत् सर्वं ज्ञानोदयेन अव्याकृते अप्येतीति श्लोकेन प्रेरितम्।

अतोहि भिन्नत्वं भ्रान्तिदर्शनम्। विश्वैकता नियतसत्यं।

Friday, October 29, 2010

तस्योपव्याख्यानं भूतंभवत्भविष्यत् इति

पूर्वं ओमित्येतदक्षरम् इदं सर्वम् इत्योक्तम्। इदं सर्वम् इत्यनेन यत् वर्तमानकालात् अस्माकं इन्द्रियगोचरे पतितम् केवलं तत् न निबोधितम्। अपि तु अन्यत्त्रिकाले प्रवृत्तः समग्रलोक एव अभिप्रेतः। केवलं वर्तमानकलस्य अनुभवेन जगतः सम्पूर्णनिजवस्तुत्वं ज्ञातुम् अश्क्यम् ननु। अतः तस्योपव्याख्यानं भूतंभवत्भविष्यत् इति वर्णितम्। पुनश्च ओमिति त्रिमात्रिकस्य तत्पर्यं त्रिलोकं त्रिकालं अपि च त्रिप्रज्ञधाम अस्ति।

त्रयः लोका भूर्भुवस्व इति।
त्रयः काला भूतंभवत्भविष्यत् इति।
त्रीणि प्रज्ञधामानि विश्वस्तैज्सःप्राज्ञश्चेति अस्मिन् उपनिशदि निबोधितम्।

इदं सर्वं ओंकासम् एव

Sunday, October 24, 2010

ओमित्येतदक्षरम् इदं सर्वम्

जगति वर्तमनानां कृत्स्नानां वस्तूनां साक्षात्कारः केवलं मनसि स्फुरति। न तु वास्तवे। अन्येन्द्रियैः गृहितवस्त्वाकारस्य मनसा वर्णिता कल्पना वाङ्मूलतः एव अभिधानं प्राप्नोति। पुनश्च वस्त्वाकारस्य अभिज्ञनमपि वाङ्मूलतः एव साध्यते। अतः वागेव लोकस्य आधारी। ओमित्यस्मिन् अग्राक्षरे सर्वेषाम् अक्षराणां प्रयत्नाधाराः समाहृताः सन्ति। अतः तदक्षरं समग्रवाचः मूलम् इत्युच्यते। इत्थं ओमित्येतदक्षरम् इदं सर्वम् इत्योक्तम्। अतोहि अयं लोकः केवलं मनस्स्पन्दनं इत्यपि सततं स्मरणीयम्।